Jump to content

User:Bk.dash

From Wikipedia, the free encyclopedia

abhigyAnasAkuntalamअभिज्ञानशाकुन्तलम्

काव्येषु नाटकं रम्यं, नाटकेषु शकुन्तलम् !

तत्रापि च चतुर्थोsङ्कस्तत्र श्लोक चतुष्टयम्  !!

तत्र श्लोकचतुष्टयम्

१.पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या

नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् !

आद्ये वःकुसुमप्रसूतिसमये यस्या भवत्युत्सवः

सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम्  !! ४/३

२.यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया

कण्ठः स्तम्भितवाष्पवृत्तिकलुषश्तिन्ताजडं दर्शनम्  !

वैक्लव्यं मम तावतीदृशमिदं स्नेहादरण्यौरसः

पीड्यन्ते गृहीणः कथं न तनया विश्लेषदुःखैर्नवैः  ! ! ४/६

३.अस्मान् साधु विचिन्त्य संयमधनान्दनुच्चैः कुलं चात्मनो-

स्त्वय्यास्यः कथमप्यबान्धवकृतां स्नेहप्रवृतिं च ताम् !

सामान्यु्रतिपत्तिपूर्वकमिदं दारेषुदृश्य त्वया

भाग्यायत्तमतः परं न खलु तद् वाच्यं वधूबन्धुः !! ४/१७

४.शुश्रूर्षस्व गुरून् कुरु प्रियसखी वृत्ति स्वपत्नीजने !

भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रदीपं गमः  !

भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी !

यान्त्येव गृहीणीपदं युवतयो वामाः कुलस्याधयः !! ४/१८