Jump to content

User:Sanghita sharma

From Wikipedia, the free encyclopedia

Sanghita Sharma

shiksha sastri 1st year

user id : sanghita sharma

नाभसयोगः

नभसिभवाः नभसाः । नाभसयोगानां चत्वारो विकल्पाः आचार्यैः ज्योतिषग्रन्थेषु चर्चिताः । तत्राकृतियोगाः आश्रययोगाः दलयौगौ संख्यायोगश्च ।  आकृतियोगानां यूपादिविंशतिर्भेदाः , आश्रययोगानां त्रयभेदाः , द्वौ दलयौगौ तथा सप्तसंख्यायोगाः सन्ति । एवमाहत्य द्वात्रिंशत् नाभसयोगाः आचार्यैः मुख्यरूपेण वर्णिताः ।

युपेषुशक्तियवदण्डयदासमुद्र-

च्छत्रार्द्धचन्द्रशकटाम्बुजपक्षीयोगाः ।

नौचक्रबज्रहलकार्मुककूटवापी

श्रृङ्गाटकाश्च विविधाकृतिविंशतिः स्युः ।।

रज्जुर्नलश्च मुसलस्त्रितयाश्रयाख्याः

स्रगभोगिनौ तु दलयोगभवौ भवेताम् ।

वीणादयश्च कथिता वरदामपाश

केदारशूलयुगगोलकसप्तसङ्ख्याः ।।

         चरादिषु त्रिषु स्थानेषउ सर्वेषां ग्रहाणां स्थितिवशात् रज्जुमुशलनलयोगाः संजायन्ते । तथैव केन्द्रे केन्द्रेतरभावेषु च शुभाशुभ ग्रहस्थितिवशात् स्रकसर्पौ यौगौ भवतः । सन्निकटस्थ केन्द्रभवनयोः सर्वग्रहैः गदायोगः समस्तग्रहैः लग्नसप्तमयोः शकटयोगः चतुर्थदशमयोगः विहगयोगः, लग्नपञ्चमनवमेषु च श्रृङ्गाटकयोगः संजायन्ते ।

         इषुयोगोत्पन्नजातकः प्रवासी रज्जुयोगे यायावरः , मुसले मानी, नले विकलाङ्गः , मालायोगे योगान्वितः , सर्पयोगे च अत्यन्त दुःखितः भवति । तथैव गदायां अर्थरूचिः शकटयोगे बाहनवृत्तिकः , विहगयोगे दूतः , शृङ्गाटके सुखी हलयोगे कृषिकर्मकर्ता बज्रे अन्त्यपूवसुखितः , यवयोगे पवित्रात्मा, पद्मयोगे विख्यातः , बापीयोगोत्पन्नश्च चिरसुखी भवति । भणितं यथा आचार्य वैद्यनाथेन—

बज्रैऽन्त्यपूर्वसुखितःर सुभयोऽतिशूरः

शौचान्वितोऽपि च यवे सुखितो वयोऽन्तः ।

विख्यातकीर्त्यमितसौख्यगुणाश्च पद्मे

वाप्यां तनुस्थिरसुखी निधिपोऽन्नदाता ।।

अतः दैवज्ञैः जातकानां शुभाशुभफल कथनप्रसङ्गे सूक्ष्मदृशा नाभसयोगाः विचारणीयाः ।